पृष्ठ

सङ्कटनाशन गणपति स्तोत्रम्

नारद उवाच:
प्रणम्य शिरसादेवं गौरीपुत्रं विनायकम् ।
भक्त्याव्यासस्स्मरेन्नित्यमायुष्कामार्थसिद्धये ॥ १ ॥
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥ २ ॥
लम्बोदरं पञ्चमं च षष्ठं विकटमेवच ।
सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टकम् ॥ ३ ॥
नवमं बालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ॥ ४ ॥
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिकरं परम् ॥ ५ ॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥ ६ ॥
जपेद्गणपतिस्तोत्त्रं षड्भिर्मासैः फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥ ७ ॥
अष्टानां ब्राह्मणानां च लिखित्वा य स्समर्पयेत् ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥ ८ ॥

इति श्री नारद पुराणे सङ्कटनाशनं नाम गणेशद्वादशनाम स्तोत्र

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें