पृष्ठ

गणेश पञ्चरत्नम्

मुदा करार्तमोदकं सदा विमुक्तिसाधकं
कलाधरावतंसकं विलासिलोकरञ्जकम् ।
अनायकैकनायकं विनाशितेभदैत्यकं
नताशुभाशुनायकं नमामि तं विनायकम् ॥ १ ॥

नतेतरातिभीकरं नवोदितार्कभास्वरं
नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥ २ ॥

समस्तलोकशङ्करं निरस्तदैत्यकुञ्जरं
दरेतरोदरं वरं वरेभवक्त्रमक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
नमस्कृतं नमस्कृतां नमस्करोमि भास्वरम् ॥ ३ ॥

अकिञ्चनार्तिमार्जनं चिरन्तनोक्तिभाजनं
पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ।
प्रपञ्चनाशभीषणं धनञ्जयादिभूषणं
कपोलदानवारणं भजेपुराणवारणम् ॥ ४ ॥

नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मज
मचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् ।
हृदन्तरेनिरन्तरं वसन्तमेव योगिनां
तमेकदन्तमेवतं विचिन्तयामि सन्ततम् ॥ ५ ॥

महागणेशपञ्चरत्नमादरेण योन्वहं
प्रजल्पति प्रभातके हृदिस्मरन् गणेश्वरम् ।
अरोगतामदोषतां सुसाहितीं सुपुत्रतां
समाहितायुरष्टभूतिरभ्युपैति सोऽचिरात् ॥ ६ ॥

:: इति श्री परमहंसपरिव्राजकाचार्यस्य श्री गोविन्द भगत्पूज्यपाद शिष्यस्य श्री शङ्कर भगवतः कृतौ गणेश पञ्चरत्नं समाप्तम्  ::

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें