पृष्ठ

श्री विष्णु सहस्रनाम स्तोत्रम्‌

शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥
यस्यद्विरद वक्त्राद्याः पारिषद्याः परश्शतं ।
विघ्नं निघ्नंति सततं विष्वक्सेनं तमाश्रये ॥

:: पूर्व पीठिका ::
॥ हरिः ॐ ॥
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ १ ॥
व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।
नमो वै ब्रह्मनिधये वासिष्ठाय नमोनमः ॥ २ ॥
अविकाराय शुद्धाय नित्याय परमात्मने ।
सधैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ ३ ॥
यस्य स्मरणमात्रेण जन्मसंसार बन्धनात् ।
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ ४॥
ओन्नमोविष्णवे प्रभविष्णवे ॥

[सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकारिणे ।
नमोवेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥
कृष्णद्वैपायनं व्यासं सर्वलोकहिते रतम् ।
वेदाब्जभास्करं वन्दे शमादिनिलयं मुनिम् ॥
सहस्रमूर्तेः पुरुषोत्तमस्य सहस्र नेत्राननपादबाहोः ।
सहस्रनाम्नांस्तवनं प्रशस्तंनिरुच्यते जन्मजरादिशान्त्यै ॥]

श्रीवैशंपायन उवाच :-
श्रुत्वाधर्मानशेषेण पावनानि च सर्वशः ।
युधिष्ठिरश्शान्तनवं पुनरेवाभ्यभाषत ॥ १ ॥

युधिष्ठिर उवाच :-
किमेकं दैवतं लोके किंवाऽप्येकं परायणम् ।
स्तुवन्तः कंकमर्चन्तः प्राप्नुयुर्मानवाश्शुभम् ॥ २ ॥
कोधर्मस्सर्वधर्माणां भवतः परमो मतः ।
किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ ३ ॥

श्री भीष्म उवाच :-
जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् ।
स्तुवन्नामसहस्रेण पुरुषस्सततोत्थितः ॥ ४ ॥
तमेवचार्चयन्नित्यं भक्त्या पुरुषमव्ययम् ।
ध्यायन् स्तुवन्नमस्यंश्च यजमानस्तमेव च ॥ ५ ॥
अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् ।
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥ ६ ॥
ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् ।
लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥ ७ ॥
एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः ।
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरस्सदा ॥ ८ ॥
परमं यो महत्तेजः परमं यो महत्तपः ।
परमं यो महद्ब्रह्म परमं यः परायणम् ॥ ९ ॥
पवित्राणां पवित्रं यो मङ्गळानां च मङ्गळं ।
दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥ १० ॥
यतस्सर्वाणि भूतानि भवन्त्यादियुगागमे ।
यस्मिंश्च प्रळयं यान्ति पुनरेव युगक्षये ॥ ११ ॥
तस्य लोकप्रधानस्य जगन्नाथस्य भूपते ।
विष्णोर्नामसहस्रं मे शृणु पापभयापहम् ॥ १२ ॥
यानि नामानि गौणानि विख्यातानि महात्मनः ।
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ १३ ॥
विष्णोर्नाम सहस्रस्य वेदव्यासो महा मुनिः ।
छन्दोनुष्टुप्तथा देवो भगवान् देवकीसुतः ॥ १४ ॥
अमृतांशूद्भवो बीजं शक्तिर्देवकिनन्दनः ।
त्रिसामा हृदयं तस्य शान्त्यर्थे विनियुज्यते ॥ १५ ॥
विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् ।
अनेकरूपदैत्यान्तं नमामि पुरुषोत्तमम् ॥ १६ ॥

अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रमहामन्त्रस्य । श्री वेदव्यासो भगवानृषिः । अनुष्टुप् चन्दः । श्री महाविष्णुः परमात्मा श्रीमन्नारायणो देवता । अमृतांशूद्भवो भानुरिति बीजम् । देवकीनन्दनस्स्रष्टेतिशक्तिः । उद्भवः क्षोभणो देव इति परमो मन्त्रः । शङ्खभृन्नन्दकी चक्रीति कीलकम् । शार्‌ङ्गधन्वागदाधर इत्यस्त्रम् । रथाङ्गपाणि रक्षोभ्य इति नेत्रम् । त्रिसामा सामगस्सामेति कवचम् । आनन्दं परब्रह्मेति योनिः । ऋतुस्सुदर्शनः काल इति दिग्बन्धः । श्री विश्वरूप इति ध्यानम् । श्रीमहाविष्णु कैंकर्यरूपे सहस्रनाम जपे विनियोगः ।

॥ ध्यानम् ॥
क्षीरोदन्वत्प्रदेशे शुचिमणि विलसत्सैकते मौक्तिकानां
     मालाकॢप्तासनस्थः स्फ़टिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः ।
शुभ्रैरभ्रैरदभ्रै रुपरिविरचितैर्मुक्तपीयूषवर्षैः
     आनन्दी नः पुनीयादरिनळिनगदाशङ्खपाणिर्मुकुन्दः ॥

भूपादौयस्यनाभिर्वियदसुरनिलश्चन्द्रसूर्यौच नेत्रे
     कर्णावाशाश्शिरो द्यौर्मुखमपि दहनो यस्य वास्तेय मब्धिः ।
अन्तस्थ्सं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यैः
     चित्रं रंरम्यते तं त्रिभुवनवपुषं विष्णुमीशं नमामि ॥

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
     विश्वाकारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिहृद्ध्यानगम्यं
     वन्दे विष्णुं भवभयहरं सर्वलोकैक नाथम् ॥

मेघश्यामं पीतकौशेयवासं श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम् ।
पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वन्दे सर्वलोकैकनाथम् ।
सशङ्खचक्रं सकिरीटकुण्डलं सपीतवस्त्रं सरसीरुहेक्षणम् ।
सहारवक्षःस्थलशोभि कौस्तुभं नमामि विष्णुं शिरसा चतुर्भुजम् ॥

॥ इति पूर्व पीठिका ॥

॥ हरिः ॐ ॥
विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ।
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥ १ ॥
पूतात्मा परमात्मा च मुक्तानां परमा गतिः ।
अव्ययः पुरुषस्साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ २ ॥
योगो योगविदां नेता प्रधानपुरुषेश्वरः ।
नारसिंहवपुश्श्रीमान् केशवः पुरुषोत्तमः ॥ ३ ॥
सर्वश्शर्वश्शिवस्स्थाणुर्भूतादिर्निधिरव्ययः ।
सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ ४ ॥
स्वयम्भूश्शम्भुरादित्यः पुष्कराक्षो महास्वनः ।
अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ ५ ॥
अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः ।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठस्स्थविरोध्रुवः ॥ ६ ॥
अग्राह्यश्शाश्वतः कृष्णो लोहिताक्षः प्रतर्धनः ।
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गळं परम् ॥ ७ ॥
ईशानः प्राणदः प्राणो ज्येष्ठश्श्रेष्ठः प्रजापतिः ।
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥ ८ ॥
ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।
अनुत्तमो दुरादर्षः कृतज्ञः कृतिरात्मवान् ॥ ९ ॥
सुरेशश्शरणं शर्म विश्वरेताः प्रजाभवः ।
अहस्संवत्सरो व्याळः प्रत्ययस्सर्वदर्शनः ॥ १० ॥
अजस्सर्वेश्वरस्सिद्धसिद्धिस्सर्वादिरच्युतः ।
वृषाकपिरमेयात्मा सर्वयोगविनिस्सृतः ॥ ११ ॥
वसुर्वसुमनास्सत्यस्समात्मा सम्मितस्समः ।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥ १२ ॥
रुद्रो बहुशिरा बभ्रुर्विश्वयोनिश्शुचिश्रवाः ।
अमृतश्शाश्वतस्स्थाणुर्वरारोहो महातपाः ॥ १३ ॥
सर्वगस्सर्वविद्भानुर्विष्वक्सेनो जनार्दनः ।
वेदो वेदविदव्यंगो वेदांगो वेदवित्कविः ॥ १४ ॥
लोकाध्यक्षस्सुराध्यक्षो धर्माध्यक्षः कृताकृतः ।
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥ १५ ॥
भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः ।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ १६ ॥
उपेन्द्रो वामनः प्रांशुरमोघश्शुचिरूर्जितः ।
अतीन्द्रस्संग्रहस्सर्गो धृतात्मा नियमो यमः ॥ १७ ॥
वेद्यो वैद्यस्सदा योगी वीरहा माधवो मधुः ।
अतीन्द्रियो महामायो महोत्साहोमहाबलः ॥ १८ ॥
महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः ।
अनिर्देश्यवपुश्श्रीमानमेयात्मा महाद्रिधृक् ॥ १९ ॥
महेष्वासो महीभर्ता श्रीनिवास्सतां गतिः ।
अनिरुद्धस्सुरानन्दो गोविन्दो गोविदां पतिः ॥ २० ॥
मरीचिर्दमनो हंसस्सुपर्णो भुजगोत्तमः ।
हिरण्यनाभस्सुतपाः पद्मनाभः प्रजापतिः ॥ २१ ॥
अमृत्युस्सर्वदृक्सिंहस्सन्धाता सन्धिमान् स्थिरः ।
अजोदुर्मर्षणश्शास्ता विश्रुतात्मा सुरारिहा ॥ २२ ॥
गुरुर्गुरुतमो धाम सत्यस्सत्यपराक्रमः ।
निमिषोऽनिमिषस्स्रग्वी वाचस्पति रुदारधीः ॥ २३ ॥
अग्रणीर्गामणीश्श्रीमान्न्यायो नेता समीरणः ।
सहस्रमूर्धा विश्वात्मा सहस्राक्षस्सहस्रपात् ॥ २४ ॥
आवर्तनो निवृत्तात्मा संवृतस्संप्रमर्धनः ।
अहसंवर्तको वह्निरनिलो धरणीधरः ॥ २५ ॥
सुप्रसादः प्रसन्नात्मा विश्वधृग् विश्वभुग् विभुः ।
सत्कर्तासत्कृतस्साधुर्जह्नुर्नारायणो नरः ॥ २६ ॥
असंख्येयोऽप्रमेयात्मा विशिष्टश्शिष्टकृच्छुचिः ।
सिद्धार्थस्सिद्धसङ्कल्पः सिद्धिदस्सिद्धिसाधनः ॥ २७ ॥
वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः ।
वर्धनो वर्धमानश्च विविक्तश्श्रुतिसागरः ॥ २८ ॥
सुभुजो दुर्धरो वाग्मी महेन्द्रोवसुदो वसुः ।
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥ २९ ॥
ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः ।
ऋद्धस्स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥ ३० ॥
अमृतांशूद्भवो भानुः शशबिन्दुस्सुरेश्वरः ।
औषधं जगतस्सेतुस्सत्यधर्मपराक्रमः ॥ ३१ ॥
भूतभव्यभवन्नाथः पवनः पावनोऽनलः ।
कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ॥ ३२ ॥
युगादिकृद्युगावर्तो नैकमायो महाशनः ।
अदृश्योव्यक्तरूपश्च सहस्रजिदनन्तजित् ॥ ३३ ॥
इष्टोऽविशिष्टश्शिष्टेष्टः शिखंडी नहुषो वृषः ।
क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ॥ ३४ ॥
अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।
अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥ ३५ ॥
स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः ।
वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः ॥ ३६ ॥
अशोकस्तारणस्तारः शूरश्शौरिर्जनेश्वरः ।
अनुकूलश्शतावर्तः पद्मी पद्मनिभेक्षणः ॥ ३७ ॥
पद्मनाभोऽरविन्दाक्षः पद्मगर्भश्शरीरभृत् ।
महर्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥ ३८ ॥
अतुलश्शरभो भीमस्समयज्ञो हविर्हरिः ।
सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ॥ ३९ ॥
विक्षरो रोहितो मार्गो हेतुर्दामोदरस्सहः ।
महीधरो महाभागो वेगवानमिताशनः ॥ ४० ॥
उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ।
करणं कारणं कर्ता विकर्ता गहनो गुहः ॥ ४१ ॥
व्यवसायो व्यवस्थानः संस्थानस्थानदो ध्रुवः ।
परर्धिः परमस्पष्ट स्तुष्टः पुष्टश्शुभेक्षणः ॥ ४२ ॥
रामो विरामो विरजो मार्गोनेयोनयोऽनयः ।
वीरश्शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ॥ ४३ ॥
वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।
हिरण्यगर्भश्शत्रुघ्नोव्याप्तो वायुरधोक्षजः ॥ ४४ ॥
ऋतुस्सुदर्शनः कालः परमेष्ठी परिग्रहः ।
उग्रस्संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥ ४५ ॥
विस्तारः स्थावरस्स्थाणुः प्रमाणं बीजमव्ययम् ।
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥ ४६ ॥
अनिर्विण्णस्स्थविष्ठो भूर्धर्मयूपो महामखः ।
नक्षत्रनेमिर्नक्षत्री क्षमः क्षामस्समीहनः ॥ ४७ ॥
यज्ञ इज्यो महेज्यश्‍च क्रतुस्सत्रं सतां गतिः ।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥ ४८ ॥
सुव्रतस्सुमुखस्सूक्ष्मः सुघोषस्सुखदस्सुहृत् ।
मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥ ४९ ॥
स्वापनस्स्ववशो व्यापी नैकात्मा नैककर्मकृत् ।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥ ५० ॥
धर्मगुब् धर्मकृद् धर्मी सदसत्क्षरमक्षरम् ।
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ॥ ५१ ॥
गभस्तिनेमिस्सत्त्वस्थस्सिंहो भूतमहेश्वरः ।
आदिदेवो महादेवो देवेशो देवभृद्गुरुः ॥ ५२ ॥
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।
शरीरभूतभृद् भोक्ता कपीन्द्रो भूरिदक्षिणः ॥ ५३ ॥
सोमपोऽमृतस्सोमः पुरुजित्पुरुसत्तमः ।
विनयो जयस्सत्यसंधो दाशार्ह स्सात्वतां पतिः ॥ ५४ ॥
जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः ।
अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ॥ ५५ ॥
अजो महार्हस्स्वाभाव्यो जितामित्रः प्रमोदनः ।
आनन्दो नन्दनोऽनन्दस्सत्यधर्मा त्रिविक्रमः ॥ ५६ ॥
महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।
त्रिपदस्त्रिदशाध्यक्षो महाशृंगः कृतान्तकृत् ॥ ५७ ॥
महावराहो गोविन्दस्सुषेणः कनकांगदी ।
गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥ ५८ ॥
वेदास्स्वांगोऽजितःकृष्णो दृढस्सङ्कर्षणोऽच्युतः ।
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ ५९ ॥
भगवान् भगहाऽऽनन्दी वनमाली हलायुधः ।
आदित्यो ज्योतिरादित्यस्सहिष्णुर्गतिसत्तमः ॥ ६० ॥
सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।
दिविस्पृक् सर्वदृग् व्यासो वाचस्पतिरयोनिजः ॥ ६१ ॥
त्रिसामा सामगस्साम निर्वाणं भेषजं भिषक् ।
सन्न्यासकृच्छमश्शान्तो निष्ठा शान्तिः परायणम् ॥ ६२ ॥
शुभागश्शान्तिदस्स्रष्टा कुमुदः कुवलेशयः ।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥ ६३ ॥
अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः ।
श्रीवत्सवक्षाश्श्रीवासश्श्रीपतिः श्रीमतां वरः ॥ ६४ ॥
श्रीदश्श्रीशश्श्रीनिवासः श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरश्श्रेयः श्रीमान् लोकत्रयाश्रयः ॥ ६५ ॥
स्वक्षस्स्वङ्गश्शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः ।
विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥ ६६ ॥
उदीर्णस्सर्वतश्चक्षुरनीशश्शाश्वतस्स्थिरः ।
भूशयो भूषणो भूतिर्विशोकश्शोकनाशनः ॥ ६७ ॥
अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः ।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥ ६८ ॥
कालनेमिनिहा वीरश्शौरिश्शूरजनेश्वरः ।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥ ६९ ॥
कामदेवः कामपालः कामी कान्तः कृतागमः ।
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ॥ ७० ॥
ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।
ब्रह्मविद्भ्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥ ७१ ॥
महाक्रमो महाकर्मा महातेजा महोरगः ।
महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥ ७२ ॥
स्तव्यस्स्तवप्रियस्स्तोत्रं स्तुतिः स्तोता रणप्रियः ।
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥ ७३ ॥
मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥ ७४ ॥
सद्गतिस्सत्कृतिस्सत्ता सद्भूतिस्सत्परायणः ।
शूरसेनो यदुश्रेष्ठस्सन्निवासस्सुयामुनः ॥ ७५ ॥
भूतावासो वासुदेवः सर्वासुनिलयोऽनलः ।
दर्पहा दर्पदोऽदृप्तो दुर्धरोऽथापराजितः ॥ ७६ ॥
विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् ।
अनेकमूर्तिरव्यक्तश्शतमूर्तिश्शताननः ॥ ७७ ॥
एकोनैकस्सवः कः किं यत्तत्पदमनुत्तमम् ।
लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥ ७८ ॥
सुवर्णवर्णो हेमाङ्गो वरांगश्चन्दनाङ्गदी ।
वीरहा विषमश्शून्यो घृताशीरचलश्चलः ॥ ७९ ॥
अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् ।
सुमेधा मेधजो धन्यस्सत्यमेधा धराधरः ॥ ८० ॥
तेजोवृषो द्युतिधरस्सर्वशस्त्रभृतां वरः ।
प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ॥ ८१ ॥
चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः ।
चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥ ८२ ॥
समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः ।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥ ८३ ॥
शुभाङ्गो लोकसारङ्गः सुतंतुस्तन्तुवर्धनः ।
इंद्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ ८४ ॥
उद्भवस्सुन्दरस्सुन्दो रत्ननाभस्सुलोचनः ।
अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी ॥ ८५ ॥
सुवर्णबिंदुरक्षोभ्यस्सर्ववागीश्वरेश्वरः ।
महाह्रदो महागर्तो महाभूतो महानिधिः ॥ ८६ ॥
कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः ।
अमृतांशोऽमृतवपुस्सर्वज्ञस्सर्वतोमुखः ॥ ८७ ॥
सुलभस्सुव्रतस्सिद्धश्शत्रुजिच्छत्रुतापनः ।
न्यग्रोधोदुम्बरोऽश्वत्थश्‍चाणूरान्ध्रनिषूदनः ॥ ८८ ॥
सहस्रार्चिस्सप्तजिह्वसप्तैधास्सप्तवाहनः ।
अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ॥ ८९ ॥
अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् ।
अधृतः स्वधृतस्स्वास्थ्यः प्राग्वंशो वंशवर्धनः ॥ ९० ॥
भारभृत्कथितो योगी योगीशः सर्वकामदः ।
आश्रमः श्रमणः क्षामस्सुपर्णो वायुवाहनः ॥ ९१ ॥
धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः ।
अपराजितस्सर्वसहो नियन्ता नियमो यमः ॥ ९२ ॥
सत्त्ववान् सात्त्विकस्सत्यधर्मपरायणः ।
अभिप्रायः प्रियार्होऽर्हः प्रियकृत्प्रीतिवर्धनः ॥ ९३ ॥
विहायसगतिर्ज्योतिस्सुरुचिर्हुतभुग्विभुः ।
रविर्विलोचनस्सूर्यः सविता रविलोचनः ॥ ९४ ॥
अनन्तो हुतभुग् भोक्ता सुखदो नैकजोऽग्रजः ।
अनिर्विण्णस्सदामर्षी लोकाधिष्ठानमद्भुतः ॥ ९५ ॥
सनात्सनातनतमः कपिलः कपिरप्ययः ।
स्वस्तिदस्स्वस्तिकृत् स्वस्ति स्वस्तिभुक् स्वस्तिदक्षिणः ॥ ९६ ॥
अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः ।
शब्दातिगश्शब्दसहश्शिशिरश्शर्वरीकरः ॥ ९७ ॥
अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः ।
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥ ९८ ॥
उत्तारणो दुष्कृतिहा पुण्यो दुस्स्वप्ननाशनः ।
वीरहा रक्षणस्सन्तो जीवनं पर्यवस्थितः ॥ ९९ ॥
अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः ।
चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥ १०० ॥
अनादिर्भूर्भुवो लक्ष्मीस्सुवीरो रुचिरांगदः ।
जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥ १०१ ॥
आधारनिलयोऽधाता पुष्पहासः प्रजागरः ।
ऊर्ध्वगस्सत्पथाचारः प्राणदः प्रणवः पणः ॥ १०२ ॥
प्रमाणं प्राणनिलयः प्राणभृत् प्राणजीवनः ।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥ १०३ ॥
भूर्भुवस्स्वस्तरुस्तारस्सविता प्रपितामहः ।
यज्ञो यज्ञपतिर्यज्वायज्ञाङ्गोयज्ञवाहनः ॥ १०४ ॥
यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग्यज्ञसाधनः ।
यज्ञान्तकृद्यज्ञगुह्यमनमन्नाद एव च ॥ १०५ ॥
आत्मयोनिस्स्वयंजातो वैखानस्सामगायनः ।
देवकीनन्दनस्स्रष्टा क्षितीशः पापनाशनः ॥ १०६ ॥
शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः ।
रथांगपाणिरक्षोभ्यस्सर्वप्रहरणायुधः ॥ १०७ ॥
श्रीसर्वप्रहरणायुधोन्नम इति
वनमाली गदी शार्ङ्गी शंखी चक्री च नन्दकी ।
श्रीमान्नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ॥ १०८ ॥

॥ उत्तर पीठिका ॥
इतीदं कीर्तनीयस्य केशवस्य महात्मनः ।
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ॥ १ ॥
य इदं शृणुया न्नित्यं यश्चापि परिकीर्तयेत् ।
नाशुभं प्राप्नुयात्किंचि त्सोऽमुत्रेह च मानवः ॥ २ ॥
वेदान्तगो ब्राह्मणस्स्यात् क्षत्रियो विजयी भवेत् ।
वैश्यो धनसमृद्धस्स्याच्छूद्रस्सुखमवाप्नुयात् ॥ ३ ॥
धर्मार्थीप्राप्नु याद्धर्म मर्थार्थीचार्थमाप्नुयात् ।
कामानवाप्नुयात्कामी प्रजार्थीचाप्नुयात्प्रजाम् ॥ ४ ॥
भक्तिमान् यस्सदोत्थाय शुचिस्तद्गतमानसः ।
सहस्रं वासुदेवस्य नाम्ना मेतत्प्रकीर्तयेत् ॥ ५ ॥
यशः प्राप्नोति विपुलं याति प्राधान्यमेव च ।
अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् ॥ ६ ॥
न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति ।
भवत्यरोगो द्युतिमा न्बलरूपगुणान्वितः ॥ ७ ॥
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः ॥ ८ ॥
दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् ।
स्तुवन्नामसहस्रेण नित्यं भक्ति समन्वितः ॥ ९ ॥
वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः ।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥ १० ॥
न वासुदेवभक्तानामशुभं विद्यते क्वचित् ।
जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥ ११ ॥
इमं स्तवमधीयान श्श्रद्धाभक्तिसमन्वितः ।
युज्येतात्मा सुखक्षान्ति श्रीधृतिस्मृतिकीर्थिभिः ॥ १२ ॥
न क्रोधो न मात्सर्यं न लोभो नाशुभा मतिः ।
भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥ १३ ।
द्यौस्सचन्द्रार्कनक्षत्रं खं दिशो भूर्महोदधिः ।
वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥ १४ ॥
ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् ।
जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् ॥ १५ ॥
इंद्रियाणि मनो बुद्धिस्सत्त्वंतेजो बलं धृतिः ।
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ॥ १६ ॥
सर्वागमानामाचारः प्रथमं परिकल्पते ।
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥ १७ ॥
ऋषयः पितरो देवा महाभूतानि धातवः ।
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥ १८ ॥
योगो ज्ञानं तथा साङ्ख्यं विध्याश्शिल्पादि कर्म च ।
वेदाश्शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ॥ १९ ॥
एकोविष्णुर्महद्भूतं पृथग्भूतान्यनेकशः ।
त्रीन् लोकान् व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥ २० ॥
इमंस्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् ।
पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ॥ २१ ॥
विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम् ।
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥ २२ ॥
॥ नते यान्ति पराभवयोन्नम इति ॥

अर्जुन उवाच :-
पद्म पत्र विशालाक्ष पद्मनाभ सुरोत्तम ।
भक्तानामनुरक्तानां त्राता भव जनार्धन ॥ २३ ॥

श्री भगवानुवाच :-
यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव ।
सोऽहमेकेन श्लोकेन स्तुत एव न संशयः ॥ २४ ॥
॥ स्तुत एव न संशय ओन्नम इति ॥

व्यास उवाच :-
वासनाद्वासुदेवस्य वासितं ते जगत्त्रयं ।
सर्वभूतनिवासोऽसि(पि) वासुदेव नमोऽस्तुते ॥ २५ ॥
॥ श्री वासुदेवनमोस्तुत ओन्नम इति ॥

पार्वत्युवाच :-
केनोपायेन लघुना विष्णोर्नामसहस्रकम् ।
पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो ॥ २६ ॥

ईश्वर उवाच :-
श्रीराम राम रामेति रमे रामे मनोरमे ।
सहस्रनामतत्तुल्यं रामनाम वरानने ॥ २७ ॥
॥ श्रीरामनाम वरानन ओन्नम इति ॥

ब्रह्मोवाच :-
नमोऽस्त्वनंताय सहस्रमूर्तये सहस्रापादाक्षि शिरोरुबाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटि युगधारिणे नमः ॥ २८ ॥
॥ श्रीसहस्रकोटि युगधारिण ओन्नम इति ॥

सञ्जय उवाच :-
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ २९ ॥

श्री भगवानुवाच :-
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ३० ॥
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ३१ ॥

आर्ता विषण्णाश्शिथिलाश्च भीताः घोरेषु च व्याधिषुवर्तमानाः ।
सङ्कीर्त्य नारायणशब्दमात्रं विमुक्तदुःखास्सुखिनो भवन्ति ॥ ३२ ॥

यदक्षर पदभ्रष्टं मात्राहीनंतु यद्भवेत् ।
तत्सर्वं क्षम्यतां देव नारायण नमोऽस्तुते ॥
कायेनवाचा मनसेन्द्रियैर्वा बुद्ध्यात्मनावा प्रकृते स्वभावात् ।
करोमियद्यत्सकलं परस्मै नारायणायेति समर्पयामि ॥
 ॥ श्रीमन्नारायणायेति समर्पयामि ॥

॥ सर्वं श्रीकृष्णार्पणमस्तु ॥

॥ इति श्रीमहाभारते शतसहस्रयां संहितायां वैयासिक्यामनुशासनपर्वणि दानधर्मपर्वणि विष्णुसहस्रनामकथने एकोनपञ्चाशदधिकशततमोऽध्यायः ॥