पृष्ठ

विघ्नेश्वर षोडशनामानि

सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्भोदरश्च विकटो विघ्नराजो गणाधिपः ॥ १ ॥
धूमकेतुर्गणाध्यक्षः फालचन्द्रो गजाननः ।
वक्रतुण्डश्शूर्पकर्णो हेरम्बस्स्कन्दपूर्वजः ॥ २ ॥
षोडशैतानि नामानि यः पठेच्छृणुयादपि ।
विद्यारम्भे विवाहेच प्रवेशे निर्गमे तथा ॥ ३ ॥
संग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते ॥