पृष्ठ

श्री गणनायकाष्टकम्‌

एकदंतं महाकायं तप्तकांचनसन्निभम् ।
लंबोदरं विशालाक्षं वंदेहं गणनायकम् ॥ १ ॥
मौंजी कृष्णाजिनधरं नागयज्ञोपवीतिनम् ।
बालेंदुशकलं मौळौ वंदेहं गणनायकम् ॥ २ ॥
चित्ररत्नविचित्रांगं चित्रमालाविभूषितम् ।
कामरूपधरं देवं वंदेहं गणनायकम् ॥ ३ ॥
गजवक्त्रं सुरश्रेष्ठं कर्णचामरभूषितम् ।
पाशांकुशधरं देवं वंदेहं गणनायकम् ॥ ४ ॥
मूषकोत्तम मारुह्य देवासुर महाहवे ।
योद्धुकामं महावीर्यं वंदेहं गणनायकम् ॥ ५ ॥
यक्ष किन्नर गंधर्व सिद्धविद्याधरैस्सदा ।
स्तूयमानं महाबाहुं वंदेहं गणनायकम् ॥ ६ ॥
अंबिकाहृदयानंदं मातृभिः परिवेष्टितम् ।
भक्तप्रियं मदोन्मत्तं वंदेहं गणनायकम् ॥ ७ ॥
सर्वविघ्नहरं देवं सर्वविघ्नविवर्जितम् ।
सर्वसिद्धि प्रदातारं वंदेहं गणनायकम् ॥ ८ ॥
गणाष्टक मिदं पुण्यं यः पठेत्सततं नरः ।
सिद्ध्यंति सर्वकार्याणि विद्यावान् धनवान् भवेत् ॥ ९ ॥

इति श्रीगणनायकाष्टकं संपूर्णम् ॥